|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.287. अध्यायः 287
Mahabharata - Vana Parva - Chapter Topics
विभीषणहनुमद्भ्यां प्रहस्तधूम्राक्षवधश्रवणनिर्विण्णेन रावणेन युद्धाय कुम्भकर्णप्रेषणम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्डेय उवाच। 3-287-0x(2712)(26995)
ततः प्रहस्तः सहसा समभ्येत्य विभीषणम्।
गदया ताडयामास विनद्य रणकर्कशम् ॥ 3-287-1(26996)
स तयाऽभिहतो धीमान्गदया भीमवेगया।
नाकम्पत महाबाहुर्हिमवानिव सुस्थिरः ॥ 3-287-2(26997)
ततः प्रगृह्यविपुलां शतघण्टां विभीषणः।
अनुमन्त्र्य महाशक्तिं चिक्षेपास् शिरः प्रति ॥ 3-287-3(26998)
पतन्त्या स तया वेगाद्राक्षसोऽशनिवेगया।
हृतोत्तामङ्गो ददृशे वातरुग्ण इव द्रुमः ॥ 3-287-4(26999)
तं दृष्ट्वा निहतं सङ्ख्ये प्रहस्तं क्षणदाचरम्।
अभिदुद्राव धूम्राक्षो वेगेन महता कपीन् ॥ 3-287-5(27000)
तस् मेघोपमं सैन्यमापतद्भीमदर्शनम्।
दृष्ट्वैव सहसा दीर्णा रणे वानरपुङ्गवाः ॥ 3-287-6(27001)
ततस्तान्सहसा दीर्णान्दृष्ट्वा वानरपुङ्गवान्।
निर्ययौ कपिशार्दूलो हनूमान्मारुतात्मजः ॥ 3-287-7(27002)
तं दृष्ट्वाऽवस्थितं सङ्ख्ये हरयः पवनात्मजम्।
महत्या त्वरया राजत्संन्यवर्तन्त सर्वशः ॥ 3-287-8(27003)
ततः शब्दो महानासीत्तुमुलो रोमहर्षणः।
रामरावणसैन्यानामन्योन्यमभिधावताम् ॥ 3-287-9(27004)
तस्मिन्प्रवृत्ते संग्रामे घोरे रुधिरकर्दमे।
क्षूम्राक्षः कपिसैन्यं तद्द्रावयामास पत्रिभिः ॥ 3-287-10(27005)
तं स रक्षोमहामात्रमापतन्तं सपत्नजित्।
प्रतिजग्राह हनुमांस्तरसा पवनात्मजः ॥ 3-287-11(27006)
तयोर्युद्धमभूदधोरं हरिराक्षसवीरयोः।
जीगीषतोर्युधाऽन्योन्यमिन्द्रप्रह्लादयोरिवं ॥ 3-287-12(27007)
कगदाभिः परिघैश्चैव राक्षसो जघ्निवान्कपिम्।
कपिश्च जघ्निवान्रः सस्कन्धविटपैर्द्रुमैः ॥ 3-287-13(27008)
ततस्तमतिकोपेन साश्वं सरथसारथिम्।
धूम्राक्षमवधीत्क्रुद्धो हनूमान्मारुतात्मजः ॥ 3-287-14(27009)
ततस्तं निहतं दृष्ट्वा धूम्राक्षं राक्षसोत्तमम्।
हरयो जातविश्रम्भा जघ्नुरन्ये च सैनिकान् ॥ 3-287-15(27010)
ते वध्यमाना हरिभिर्बलिभिर्जितकाशिभिः।
राक्षसा भग्नसंकल्पा लङ्कामभ्यपतन्भयात् ॥ 3-287-16(27011)
तेऽभिपत्य पुरं भग्ना हतशेषा निशाचराः।
सर्वं राज्ञे यथावृत्तं रावणाय न्यवेदयन् ॥ 3-287-17(27012)
श्रुत्वा तु रावणस्तेभ्यः प्रहस्तं निहतं युधि।
धूम्राक्षं च महेष्वासं ससैन्यं सहराक्षसैः ॥ 3-287-18(27013)
सुदीर्घमिव निःश्वस्य समुत्पत्य वरासनात्।
उवाच कुम्भकर्णस्य कर्मकालोऽयमागतः ॥ 3-287-19(27014)
इत्येवमुक्त्वा विविधैर्वादित्रैः सुमहास्वनैः।
शयानमतिनिद्रालुं कुम्भकर्णमबोधयत् ॥ 3-287-20(27015)
प्रबोध्य महता चैनं यत्नेनाऽऽगतसाध्वसः।
स्वस्थमासीनमव्यग्रं विनिद्रं राक्षसाधिपः।
ततोऽब्रवीद्दशग्रीवः कुम्भकर्णं महाबलम् ॥ 3-287-21(27016)
धन्योसि यस्य ते निद्रा कुम्भकर्णेयमीदृशी।
य इदं दारुणं कालं न जानीषे महाभयम् ॥ 3-287-22(27017)
एष तीर्त्वाऽर्णवं रामः सेतुना हरिभिः सह।
अवमत्येह नः सर्वान्करोति कदनं महत् ॥ 3-287-23(27018)
मया त्वपहृता भार्या सीता नामास्य जानकी।
तां नेतुं स इहायातो बद्ध्वा सेतुं महार्णवे ॥ 3-287-24(27019)
तेन चैव प्रहस्तादिर्महान्नः स्वजनो हतः।
तस्य नान्यो निहन्ताऽस्ति त्वामृतेशत्रुकर्शन ॥ 3-287-25(27020)
सदंशितोऽभिनिर्याहि त्वमद्य बलिनांवर।
रामादीन्समरे सर्वाञ्जहि शत्रूनरिंदम ॥ 3-287-26(27021)
दूषणावरजौ चैव वज्रवेगप्रमाथिनौ।
तौ त्वां बलेन महता सहितावनुयास्यतः ॥ 3-287-27(27022)
इत्युक्त्वा राक्षुसपतिः कुम्भकर्णं तरस्विनम्।
संदिदेशेतिकर्तव्ये वज्रवेगप्रमाथिनौ ॥ 3-287-28(27023)
तथ्त्युक्त्वा युतौ वीरौ रावणं दूषाणानुजौ।
कुम्भकर्णं पुरस्कृत्य तूर्णं निर्ययतुः पुरात् ॥ 3-287-29(27024)
इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि सप्ताशीत्यधिकद्विशततमोऽध्यायः ॥ 287 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-287-11 रक्षोमहामात्रं रक्षःश्रेष्ठम् ॥ 3-287-21 आगतसाध्वसः जातभयः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|